|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.33. अध्यायः 033
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण रात्रौ विदुरानयनम् ॥ 1 ॥
चिन्तया प्रजागरंगतेन धृतराष्ट्रेण दुर्योधनादिसुखोपायप्रश्ने विदुरेण नीतिकथन पूर्वकं पाण्डवेभ्यो राज्यदानस्य तदुपायत्वकथनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशंपानय उवाच। 5-33-0x(3441)(32705)
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम् ॥ 5-33-1(32706)
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ 5-33-2(32707)
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ॥ 5-33-3(32708)
द्वाःस्थ उवाच। 5-33-4x(3442)
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्।
द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ 5-33-4(32709)
धृतराष्ट्र उवाच। 5-33-5x(3443)
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥ 5-33-5(32710)
द्वाःस्थ उवाच। 5-33-6x(3444)
प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः।
न हि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम् ॥ 5-33-6(32711)
वैशम्पायन उवाच। 5-33-7x(3445)
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ 5-33-7(32712)
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात्।
यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ॥ 5-33-8(32713)
धृतराष्ट्र उवाच। 5-33-9x(3446)
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ 5-33-9(32714)
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ 5-33-10(32715)
आग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ 5-33-11(32716)
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो
न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि
किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता ॥ 5-33-12(32717)
` तन्मे ब्रूहि विदुर त्वं यथाव-
न्मनीषितं सर्वमजातशत्रोः ।
यथा न नस्तात हितं भवेच्च
प्रजाश्च सर्वाः सुखिता भवेयुः ॥' 5-33-13(32718)
विदुर उवाच। 5-33-14x(3447)
अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ 5-33-14(32719)
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप।
कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे ॥ 5-33-15(32720)
धृतराष्ट्र उवाच। 5-33-16x(3448)
श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः।
अस्मिन्रादर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ॥ 5-33-16(32721)
विदुर उवाच। 5-33-17x(3449)
राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत्।
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः॥ 5-33-17(32722)
विपरीततरश्च त्वं भागधेये न संमतः।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥ 5-33-18(32723)
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात्।
गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते ॥ 5-33-19(32724)
दुर्योधने सौबले च कर्णे दुःशासने तथा।
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ 5-33-20(32725)
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ 5-33-21(32726)
` एकस्माद्वृक्षाद्यज्ञपात्राणि राज-
न्स्रुक्व द्रोणी पेठनीपीडने च।
एतस्माद्राजन्ब्रुवतो मे निबोध
एकस्माद्वै जायतेऽसच्च सच्च ॥ 5-33-22(32727)
निषेवते प्रशस्तानि निन्दितानि न सेवते।
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ 5-33-23(32728)
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ 5-33-24(32729)
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ 5-33-25(32730)
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥ 5-33-26(32731)
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ 5-33-27(32732)
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।
किंचिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ 5-33-28(32733)
क्षिप्रं विजानाति चिरं श्रृणोति
विज्ञाय चार्यं भजते न कामात्।
नासंपृष्टो व्युपयुङ्क्ते परार्थे
तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ 5-33-29(32734)
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ 5-33-30(32735)
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः।
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते 5-33-31(32736)
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ 5-33-32(32737)
न हृष्यत्यात्मसंमाने नावमानेन तप्यते।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ 5-33-33(32738)
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ 5-33-34(32739)
प्रवृत्तवाक् चित्रकथ ऊहवान्प्रतिभानवान्।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥ 5-33-35(32740)
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ 5-33-36(32741)
` अर्थं महान्तमासाद्य विद्यामेश्वर्यमेव च।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते '॥ 5-33-37(32742)
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ 5-33-38(32743)
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ 5-33-39(32744)
अकामान्कामयति यः कामयानान्परित्यजेत्।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ 5-33-40(32745)
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ 5-33-41(32746)
संसारयति कृत्यानि सर्वत्र विचिकित्सते।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ 5-33-42(32747)
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥ 5-33-43(32748)
अनाहूतः प्रविशति अपृष्टो बहु भाषते।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ 5-33-44(32749)
परं क्षिपति दोषेण वर्तमानः स्वयं तथा।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥ 5-33-45(32750)
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम्।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ 5-33-46(32751)
अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ 5-33-47(32752)
एकः संपन्नमाश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ 5-33-48(32753)
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ 5-33-49(32754)
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ 5-33-50(32755)
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भवा॥ 5-33-51(32756)
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रपिप्लवः ॥ 5-33-52(32757)
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ 5-33-53(32758)
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे।
सत्यं स्वगस्य सोपानं पारावारस्य नौरिव ॥ 5-33-54(32759)
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ 5-33-55(32760)
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥ 5-33-56(32761)
क्षमा वशीकृतीर्लोके क्षमया किं न साध्यते।
शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः ॥ 5-33-57(32762)
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति।
अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥ 5-33-58(32763)
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥ 5-33-59(32764)
द्वाविमौ ग्रसते भूमिः सर्पो बलिशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 5-33-60(32765)
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।
अब्रुवन्परुषं किंचिदसतोऽनर्चयंस्तथा ॥ 5-33-61(32766)
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः ॥ 5-33-62(32767)
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ 5-33-63(32768)
द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ 5-33-64(32769)
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ 5-33-65(32770)
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चात्प्रतिपादनम् ॥ 5-33-66(32771)
द्वावभ्यसि निवेष्टव्यौ गले बध्वा दृढां शिलाम् ।
धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥ 5-33-67(32772)
द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ 5-33-68(32773)
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ 5-33-69(32774)
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ 5-33-70(32775)
त्रय एवाधना राजन्भार्या दासस्तथा सुतः।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ 5-33-71(32776)
हरणं च परस्वानां परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः ॥ 5-33-72(32777)
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ 5-33-73(32778)
वरप्रदानं राज्यं च पुत्रजन्म च भारत।
शत्रोश्च मोक्षणं कृच्छ्रात्रीणि चैकं च तत्समम् ॥ 5-33-74(32779)
भक्तं च भजमानं च तवास्मीति च वादिनम् ।
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि कन सन्त्यजेत् ॥ 5-33-75(32780)
चत्वारि राज्ञा तु महाबलेन
वर्ज्यान्याहुः पण्डितस्तानि विद्यात्।
अल्पप्रज्ञैः सह मन्त्रं न कुर्या-
न्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ 5-33-76(32781)
चतवारि ते तात गृहे वसन्तु
श्रियाऽभिजुष्टस्य गृहस्थधर्मे।
वृद्धो ज्ञातिरवसन्नः कुलीनः
सखा दरिद्रो भगिनी चानपत्या ॥ 5-33-77(32782)
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ 5-33-78(32783)
देवतानां च सङ्कल्पमनुभावं च धीमताम्।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ 5-33-79(32784)
चत्वारि कर्माण्यभयंकराणि
भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः ॥ 5-33-80(32785)
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ 5-33-81(32786)
पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम्।
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ 5-33-82(32787)
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः । 5-33-83(32788)
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ 5-33-84(32789)
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता । 5-33-85(32790)
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ 5-33-86(32791)
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥ 5-33-87(32792)
षडेव तु गुणाः पुंसा न हातव्याः कदाचन।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ 5-33-88(32793)
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड्जीवलोकस्य सुखानि राजन् ॥ 5-33-89(32794)
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ 5-33-90(32795)
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ 5-33-91(32796)
प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ 5-33-92(32797)
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥ 5-33-93(32798)
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरं ॥ 5-33-94(32799)
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकं ॥ 5-33-95(32800)
आरोग्यमानृण्यमविप्रवासः
सद्भिर्मनुष्यैः सह संप्रयोगः।
स्वप्रत्यया वृत्तिरभीतवासः
षट् जीवलोकस्य सुखानि राजन् ॥ 5-33-96(32801)
ईर्षुर्धृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ 5-33-97(32802)
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः॥ 5-33-98(32803)
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्।
महच्च दण्डपारुष्यमर्थदूषणमेव च॥ 5-33-99(32804)
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते॥ 5-33-100(32805)
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ 5-33-101(32806)
नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति।
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत् ॥ 5-33-102(32807)
अष्टाविमानि हर्षस्य नवनीतानि भारत।
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि ॥ 5-33-103(32808)
समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ 5-33-104(32809)
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ 5-33-105(32810)
अष्टौ गुमाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च ॥ 5-33-106(32811)
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ 5-33-107(32812)
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥ 5-33-108(32813)
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश।
तस्मादेतेषु भावेषु न प्रसञ्जेत पण्डितः॥ 5-33-109(32814)
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ 5-33-110(32815)
यः काममन्यू प्रजहाति राजा
पात्रे प्रतिष्ठापयते धनं च।
विशेषविच्छ्रुतवान्क्षिप्रकारी
तं सर्वलोकः कुरुते प्रमाणम् ॥ 5-33-111(32816)
जानाति विश्वासयितुं मनुष्यान्
विज्ञातदोषेषु दधाति दण्डम्।
जानाति मात्रां च तथा क्षमां च
तं तादृशं श्रीर्जुषते समग्रा ॥ 5-33-112(32817)
सुदुर्बलं नावजानाति कंचि-
द्युक्तो रिपुं सेवते बुद्धिपूर्वम्।
न विग्रहं रोचयते बलस्थैः
काले च यो विक्रमते स धीरः ॥ 5-33-113(32818)
प्राप्याप.. न व्यथते कदाचि-
दुद्योगमान्वच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा
धुरन्धरस्तस्य जिताः सपत्नाः ॥ 5-33-114(32819)
अनर्थकं विप्रवासं गृहेभ्यः
पापैः सन्धिं परदाराभिमर्शम्।
दम्भं स्तैन्यं पैशुनं मद्यमानं
न सेवते यः स सुखी सदैव ॥ 5-33-115(32820)
न संरम्भेणारभते त्रिवर्ग-
माकारितः शंसति तत्त्वमेव।
न मित्रार्थे रोचयते विवादं
नापूजितः कुप्यति चाप्यमूढः ॥ 5-33-116(32821)
न योऽभ्यसूयत्सयनुकम्पते च
न दुर्बलः प्रातिभाव्यं करोति।
नात्याह किंचित्क्षमते विवादं
सर्वत्र तादृग्लभते प्रशंसाम्॥ 5-33-117(32822)
यो नोद्धतं कुरुते जातु वेषं
न पौरुषेणापि विकत्थतेऽन्यान्।
न मूर्च्छितः कटुकान्याह किंचि-
त्प्रियं सदा तं कुरुते जनो हि ॥ 5-33-118(32823)
न वैरमुद्दिपयति प्रशान्तं
न दर्पमारोहति शान्तिमेति।
न दुर्गतोऽस्मीति करोत्यकार्यं
तमार्यशीलं परमाहुरार्याः ॥ 5-33-119(32824)
न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रहृष्टः।
दत्त्वा न पश्चात्कुरुतेऽनुतापं
स कथ्यते सत्पुरुषार्यशीलः ॥ 5-33-120(32825)
देशाचारान्समयाञ्जातिधर्मान्
बुभूषते यः स परावरज्ञः।
स यत्र तत्राभिगतः सदैव
महाजनस्याधिपत्यं करोति ॥ 5-33-121(32826)
दम्भं मोहं मत्सरं पापकृत्यं
राजद्विष्टं पैशुनं पूगवैरम्।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं
यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ 5-33-122(32827)
दमं शौचं दैविकं मङ्गलानि
प्रायश्चित्तान्विविधाँल्लोकवादान्।
एतानि यः कुरुते नैत्यकानि
तस्योत्थानं देवता राधयन्ति ॥ 5-33-123(32828)
समैर्विवाहं कुरुते न हीनैः
समैः सख्यं व्यवहारं कथां च।
गुणैर्विशिष्टांश्च पुरो दधाति
विपश्चितस्तस्य नयाः सुनीताः ॥ 5-33-124(32829)
मितं भुङ्क्ते संविभज्याश्रितेभ्यो
मितं स्वपित्यमितं कर्म कृत्वा।
ददात्यमित्रेष्वपि याचितः सं-
स्तमात्मवन्तं प्रजहत्यनर्थाः ॥ 5-33-125(32830)
चिकीर्षितं विप्रकृतं च यस्य
नान्ये जनाः कर्म जानन्ति किंचित्।
मन्त्रे गुप्ते सम्यगनुष्ठिते च
नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ 5-33-126(32831)
यः सर्वभूतप्रशमे निविष्टः
सत्यो मृदुर्मानकृच्छुद्धभावः
अतीव स ज्ञायते ज्ञातिमध्ये
महामणिर्जात्य इव सप्रन्नः ॥ 5-33-127(32832)
य आत्मनाऽपत्रपते भृशं नरः
स सर्वलोकस्य गुरुर्भवत्युत
अनन्तजेजाः सुमनाः समाहितः
स तेजसा सूर्य इवावभासते ॥ 5-33-128(32833)
वने जाताः शापदग्धस्य राज्ञः
पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।
त्वयैव बाला वर्धिताः शिक्षिताश्च
तवादेशं पालयन्त्याम्बिकेय ॥ 5-33-129(32834)
प्रदायैषामुचितं तातराज्यं
सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां
भविष्यसि त्वं गर्हणीयो नरेन्द्र ॥ ॥ 5-33-130(32835)
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि त्रयस्त्रिंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-33-5 अकल्पो न किंतु कल्पः समर्थ एव । सर्वदा विदुरसंदर्शनं मय अप्रत्याख्येयमित्यर्थः ॥ 5-33-10 प्रजागरं निद्राया अभावम् ॥ 5-33-12 यतः यदा प्राप्तः सञ्जयस्तदारभ्येत्यर्थः। प्रचिन्ता प्रकृष्टा चिन्ता ॥ 5-33-14 अभियुक्तमित्यर्धोपात् एकः त्रयोऽन्ये च प्रदागरावेशभाजनानि ॥ 5-33-15 गृद्ध्यन् लिप्सावान् ॥ 5-33-17 प्रेष्यः प्रकर्षेण एषणीयः प्रार्थ्य इतियावत् । ते त्वया प्रेषितो वनमिति शेषः ॥ 5-33-18 विपरीतः राजलक्षणहीनः सर्वेषां द्वेष्यः । भागधेये राज्यांशे । अर्चिषां नेत्ररश्मीनां प्रक्षयात्। न संमतस्त्वं धर्मात्मापि सन्निति उपहासः ॥ 5-33-19 आनृशंस्यात् क्रूरत्वाभावात्। अनुक्रोशात् दयालुत्वात्। तितिक्षते युधिष्ठिर इति शेषः ॥ 5-33-20 एतेष्विति। एतेषामधीनो भूत्वेत्यर्थः ॥ 5-33-21 एतेषु पाण्डित्यं नास्तीति वक्तुं पाण्डितलक्षणान्याह आत्मज्ञानमित्यादिना। आत्मज्ञानं शास्त्रीयापेक्षम्। समारम्भः शक्त्यपेक्षः । तितिक्षा वैराग्यापेक्षा। धर्मनित्यता श्रद्धापेक्षा। एतानि अयथाभूतानि मूढान् पुरुषार्थात् भ्रंशयन्ति नतु पण्डितानित्यर्थः ॥ 5-33-23 अनास्तिकः परलोकाद्यस्तीति जानन्। श्रद्दधानः श्रद्धा गुरुवेदवाक्यादिषु फलावश्यंभावनिश्चयस्तद्वान् ॥ 5-33-24 दर्पः परावज्ञानम्। स्तम्भः असन्नतिः। मान्यमानिता मान्यं मानार्हं आत्मानं मन्यत इति मान्यमानी तस्य भावस्तत्ता ॥ 5-33-27 संसारिणी स्वभावतोऽनवस्तितापि कामात् ऐहिक सुखात् उभयलोकसुखावहं धर्ममर्थं वृणीते स पण्डितः। कामो धर्मार्थापेक्षया निकृष्ट इत्यर्थः। कामादिति। यस्तु कामं त्यक्त्वा अर्थं वृणीते सः अर्थार्थी मोक्षादेव सर्वं अर्थं विन्दति ज्ञानफले मोक्षे कृत्स्नस्यार्थस्यान्तर्भावात् स जनकादितुल्यः अतः पण्डित उच्यते ॥ 5-33-29 चिरं शृणोति ज्ञानदार्ढ्याय असंपृष्टः यथावदपृष्टः। व्युपयुङ्क्ते वाग्व्ययं करोति। परार्थे विषये प्रज्ञानं चिह्नम् ॥ 5-33-31 निश्चित्य स्वयत्नमाध्यत्वम्। कर्मणः अन्तर्मध्ये न वसति नोपरमते किंतु समापयत्येव । अवन्ध्यकालः सर्वदा सप्रयोजनमेव कर्माचरन् ॥ 5-33-32 आर्याः शिष्टाःक तद्योग्यकर्मणि । भूरितैश्वर्यं तत्प्राप्त्यर्थं कर्माणि ॥ 5-33-34 योगो रचनाप्रकारः। उपायस्तदर्थसाग्री। मनुष्याणां मध्ये स नरः पण्डितः ॥ 5-33-35 प्रवृत्तवाक् अकुण्ठितवचनः । चित्रकथो लोककथाभिज्ञः । ऊहस्तर्कः। प्रतिभानं तत्कालस्फूर्तिः ॥ 5-33-36 प्रज्ञानुगं बुद्धिवश्यम्। श्रुतानुगा शास्त्रानुसारिणी ॥ 5-33-38 महामनाः अधिकेच्छावान्। अकर्मणा हीनकर्मणा द्यूतादिनेत्यर्थः ॥ 5-33-42 संसारयति भृत्यादिद्वारा प्रवर्तयति ॥ 5-33-46 नैष्कर्म्यात् अयत्नतः॥ 5-33-47 कदर्यं अदातारम् ॥ 5-33-51 एकया बुद्द्या। द्वे कार्याकार्ये विनिश्चित्य सम्यगवधार्य। त्रीन् मित्रोदासीनशत्रून्। चतुर्भिः सामदानभेददण्डैः। मित्रं साम्नैव दानभेदाभ्यामुदासीनम् सर्वैः शत्रुं वशीकुरु । पञ्च इन्द्रियाणि जित्वा। षड्विदित्वा संधिविग्रहादीन् ज्ञात्वा। सप्त हित्वा-स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्। महच्च दण्डपारुष्यमर्थदूषणमेव चेति सप्त हेयानि त्यक्त्वा सुखी भव ॥ 5-33-54 सत्यं यथार्थभाषणम्। पारावारस्य समुद्रस्य ॥ 5-33-69 यद्धं कनीयान्। भेददाने मध्यमः। साम उत्तमः 5-33-71 त्वयिसति त्वत्पुत्रोऽधनोऽतस्त्वमेव पाण्डवानां राज्यं दातुं प्रभुरसीत्यर्थः ॥ 5-33-75 शरणं गृहम्। विषमेपि संकटेपि ॥ 5-33-76 दीर्घसूत्रैः क्षिप्रसाध्ये कार्ये चिरं कुर्वद्धिः । अलसैः करिष्यामीति कालगमकैः। चारणैः स्तावकैः। अरणैरितिच्छेदो कवा। रणविरोधिभिर्द्यूताद्यासक्तैरित्यर्थः ॥ 5-33-77 वृद्धः कुलधर्मानुपदिशति। कुलीनः शिशून् आचारं ग्राहयति। सखा हितं वदति। भगिनी धनं रक्षति ॥ 5-33-78 साद्यस्कानि सद्यःफलानि ॥ 5-33-79 देवताः स्वर्गभाजः। स्वर्गपदार्थश्च- यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् इत्येवंरूपः। अतस्ते सत्यसंकल्पाः। धीमतामगस्त्यादीनामनुभावं समुद्रपानादिप्रभावम्। तेपि देवतुल्या इत्यर्थः। विनयोपि गुरुप्रसादकरत्वेन सद्यःफलः। विनाशहेतुः कर्मापि चौर्यादिकं तच्च त्वय्येवास्ति। तव सर्वं कर्म मानार्थमेवेति भाः। पापकर्मणां विनाशनं विनाशयितुः सद्यःफलम् ॥ 5-33-82 पितॄन् अग्निष्वात्तादीन् गोत्रप्रवर्तकानृषींश्च । मनुष्यान् पित्रादीन् ॥ 5-33-83 त्वा त्वाम्। उपजीव्याः गुरवः । इह लोके साधिता मित्रादयाः। इह परलोके जन्मान्तरे वा स्वं स्वं कार्यं कुर्वन्तीत्यर्तः ॥ 5-33-84 दृतेश्चर्ममयाज्जलपात्रात् 5-33-88 गोपालस्य ग्रामे वासे वनवाससाध्यस्य गोरक्षणस्याभावः। नापितस्य वने वासे ग्रामे तत्कार्याभाव इति भावः ॥ 5-33-90 षण्णामिति। आत्मनि चित्ते नित्यानां षण्णाम्- कामक्रोधौ शोकमोहौ मदमानौ च षट्पदीत्युक्तानाम्। ऐश्वर्यं वशित्वम् ॥ 5-33-95 नातुराः अरोगाः ॥ 5-33-96 स्वप्रत्यया स्वनिश्चयपूर्विका वृत्तिवर्तनं नतु गतानुगतिकयेत्यर्थः ॥ 5-33-100 द्वेष्टि मनसानिष्टं चिन्तयति। विरुध्यते कर्मणा ॥ 5-33-104 सन्निपातः समरतं (न्नगर्भः) ॥ 5-33-107 त्रिस्थूणं वातपित्तश्लेष्माणः स्थूणायरू...। पञ्च साक्षिवदुदासीनाः शब्दादयो ग्राह्या यस्मिन्। क्षेत्रज्ञाधि ....... वीवाधिष्ठितम् ॥ 107 ॥ 5-33-108 मत्ते मद्यादिना। प्रमत्तो विषयान्तरासक्तयाऽनवहितः। उन्मत्ते धातुदोषात् ॥ 5-33-112 मात्रा उपराधानुसारेण दण्डप्रमाणम् । ब्राह्मणादौ अपराधस्य क्षगां च ज...ति ॥ 5-33-113 युक्तः छि...पेक्षणि हितः ॥ 113 ॥ 5-33-114 संभ्य...क्रोध न च स्त्रियोऽर्थे यतते विवादं इति कo पाठः। 5-33-116 न ........इति । खo पाठः। मात्रार्थे अल्पार्थे इति ......॥ 5-33-11. प्रातिभाव्यं प्रतिकूलो भावः चित्ताभिप्राया ......... प्रातिभाव्यं विरोधम्। अत्याह अतिकम्य ब्रवीति ॥ 5-33-122 दम्भं परवच्चनेच्छया धर्मानुष्ठानम् ॥ 5-33-127 जात्य अभिजातः उत्तमे आकरे जातः ॥ 5-33-128 आत्मना अपत्रपते परैरज्ञातेऽपि स्वव्यलीके स्वयमेव लज्जते ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|